पूर्वम्: ५।१।८४
अनन्तरम्: ५।१।८६
 
सूत्रम्
द्विगोर्वा॥ ५।१।८५
काशिका-वृत्तिः
द्विगोर् वा ५।१।८६

समायाः खः ५।१।८४ इत्येव। समाशब्दान्ताद् द्विगोः निर्वृत्तादिसु अर्थेषु पञ्चसु वा खः प्रत्ययो भवति। पूर्वेण नित्यःप्राप्तो विकल्प्यते। प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणम् अलुकि ७।३।१७ इति प्राप्तिरस्त्येव। खेन मुक्ते पक्षे ठञपि भवति। द्विसमिनः, द्वैसमिकः। त्रिसमीनः, त्रैसमिकः।
न्यासः
द्विगोर्वा। , ५।१।८५

"पूर्वेण" इत्यादि। कथं पुनः समाशब्दाद्विधीयमानः प्रत्ययस्तदन्ताद्()द्विगोः प्राप्नोति? इत्यत आह--"प्राग्वतेः" इत्यादि। गतार्थम्()॥
बाल-मनोरमा
द्विगोर्वा १७२७, ५।१।८५

द्विगोर्वा। समायाः ख इत्येवेति। तथाच समान्ताद्विगोर्द्द्वितीयान्तात्खो वा स्यात्, पक्षे ठञिति फलितम्। "अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे"ति लिङ्गानुशासनसूत्रम्। "हायनोऽस्त्री शरत्समाः" इत्यमरः। "समां समां विजायते" इति सूत्रादेकवचनमप्यस्ति। पञ्चस्विति। "ते निर्वृत्तं" "तमधीष्ठो भृतदो भावी"ति पञ्चस्वित्यर्थः। एषां यथायोगमन्वयः। द्वैसमिक इति। खाऽभावे प्राग्वतीयष्ठञ्।

तत्त्व-बोधिनी
द्विगोर्वा १३३४, ५।१।८५

द्विगोर्वा। "संख्यापूर्वपदानांतदन्तग्रहणमलुकी"त्यभ्युपगमात्पूर्वेण नित्ये प्राप्ते विकल्पः। द्वैसमिक इति। खेन मुक्ते पक्षे ठ()ञिति भावः।